लोककल्याणकार्यं लघुत्वाय न
(सं) विजया भट्, यू.एस्.ए.(From Sambhashana Sandesha, August 2021)- A Short Story in Sanskrit

आसीत् पुरा इक्ष्वाकुकुले पुरञ्जयनामक: कश्चन राजा । स: महायोध: इति त्रैलोक्ये प्रथित: । कदाचित् देवानाम् असुराणां च मिथ: सङ्घर्ष: सञ्जात: । देवेन्द्र: पुरञ्जयम् उपगम्य साहाय्यम् अयाचत ।

पुरञ्जय: अवदत् – “हे इन्द्र ! मया तु साहाय्यं दीयेत । परन्तु भवान् वृषभरूपेण मम वाहनं भवेत्” इति ।

एतत् श्रुत्वा इन्द्र: ‘वृषभत्वस्य अङ्गीकार: अपमानकर:’ इति चिन्तयन् क्रुद्ध: सन् विष्णुम् उपसर्प्य पुरञ्जयस्य वचनम् अकथयत्, “विना निर्बन्धेन मम साहाय्यं कर्तुं पुरञ्जयं भवान् प्रेरयतु” इति प्रार्थितवान् च ।

तदा विष्णु: हसित्वा अवदत् – “लोककल्याणं साधनीयं चेत् भवान् अङ्गीकरोतु पुरञ्जयस्य वचनम् । तत्र को वा दोष: ? मया लोककल्याणार्थं किं किं न कृतम् ? मत्स्यकूर्मवराहादीन् अनेकान् अवतारान् अहं कृतवान् खलु ? एतादृशं मम अपमानाय इति कदाचिदपि न चिन्तितं मया । अत: चिन्तां विना लोकहिताय वृषभरूपेण पुरञ्जयस्य वाहनं भवतु भवान्” इति ।

भगवत: वचनानि श्रुत्वा इन्द्र: लज्जाम् अनुभूतवान् । तत: स: पुरञ्जयस्य वृषभवाहनं भूत्वा युद्धाय सन्नद्ध: जात: । युद्धे वृषभस्य ककुदि एव उपविश्य असुरा: पराजिता: पुरञ्जयेन । तस्मात् कारणात् तस्य नाम ‘काकुत्स्थ:’ इति प्रसिद्धम् अभवत् । तस्य वंश: अपि काकुत्स्थवंश: इति ख्यातिम् अवाप्नोत् । लोककल्याणाय कृतं कार्यं कदापि लघुत्वं न याति ।

By Sunil