(From Sambhashana Sandesha 1 Sep 2021)

ओलम्पिक्स्पर्धासु भारतेन सप्त पदकानि प्राप्तानि ऐदम्प्राथम्येन इत्येतत् वयं जानीम: एव । आकारेण धनादिसामर्थ्येन च दुर्बलै: अपि देशै: बहुषु पदकेषु प्राप्यमाणेषु भारतेन सप्त एव पदकानि प्राप्तानि इत्ययं विषय: गौणत्वेन भासेत कदाचित् । क्रीडादिसामर्थ्यवृद्धि: सङ्कल्पमात्रेण धनविनियोगमात्रेण वा न भवति । सामर्थ्यवताम् अभिज्ञानं, तेषां योग्यं प्रशिक्षणं, समुचितानां साधनानां प्रापणम्, सामर्थ्यप्रदर्शनाय अवसरदानम् इत्यादय: बहव: अंशा: अनुष्ठिता: चेदेव पदकप्राप्त्यर्हाणां तरुणानां विकास: भवेत् । भारतेन एतस्मिन् क्षेत्रे विशेषावधानं दीयमानम् अस्ति अद्यत्वे इत्यत: एव पदकानि आधिक्येन प्राप्तुं शक्तं भारतेन ।

ये पदकानि प्राप्तवन्त:, ते इव पदकानि प्राप्तुम् असमर्था: सन्त: अपि विशेषयोग्यतां ये प्रदर्शितवन्त: ते अपि वस्तुत: अभिनन्दनार्हा: एव । फलाफलं भवति दैवाधीनम् । किन्तु प्रयत्न: भवति मानवाधीन: । प्राप्तपदकै: यावान् परिश्रम: कृत: स्यात् तावान् एव परिश्रम: कृत: भवति विशेषयोग्यतां प्रदर्शितवद्भि: अपि । अत: परिश्रमदृष्ट्या उभयविधा: अपि समाना: एव । अन्य: अपि अवधातव्य: मुख्य: अंश: नाम – एतादृशेषु बहव: अतिसामान्यकुटुम्बीया: इति । आर्थिकाद्यानुकूल्ये असति अपि परिश्रमेण स्वीयं सामर्थ्यं विकासितवन्त: ते । एतादृशा: अभिनन्दनीया: कथं न भवेयु: ?

एतादृशेषु अन्यतमा आसीत् मीराबायीचानू, या च भारोन्नयनस्पर्धायां कांस्यपदकं प्राप्तवती । कुग्रामे जन्म प्राप्तवत्या तया प्रशिक्षणार्थं प्रतिदिनं ३० कि.मी.दूरे स्थितम् इम्फालनगरं प्रति गमनागमनं करणीयं भवति स्म । धनाभावात् सा तदर्थं ट्रक्चालकानां साहाय्यं प्राप्नोति स्म । यदा पदकं प्राप्य स्वजन्मस्थलं प्रति आगतं तदा तया कृतं प्रथमं कार्यं तु – इम्फालं प्रति गमनागमनाय साहाय्यं कृतवतां १५० ट्रक्चालकानां सम्माननम् । तेभ्य: सर्वेभ्य: भोजनसत्कारं परिकल्प्य वस्त्रमपि उपायनीकृतवती सा । स्तुत्यम् आचरणं खलु तस्या: ?

अस्मत्प्रधानमन्त्रिणा कृतं किञ्चन स्तुत्यम् आचरणमपि अत्र उल्लेखम् अर्हति इति भाति । पदकं प्राप्तवन्त: सर्वे तेन अविलम्बेन दूरवाण्या अभिनन्दिता: एव । तावदेव न, विशिष्टसामर्थ्यं प्रदर्शितवन्त: अपि अभिनन्दिता: । महिलाहाकिस्पर्धायां भारतीयदलेन विशिष्टं सामर्थ्यं प्रदर्श्य अपि दैवदुर्विपाकात् पदकं प्राप्तुं न शक्तम् । तस्मात् सर्वा: गणसदस्या: अश्रूणि स्रावयन्त्य: क्रीडाङ्गणात् बहि: आगता: । किन्तु तावता ताभि: प्राप्तम् आसीत् प्रधानमन्त्रिण: दूरवाण्याह्वानम् । प्रधानमन्त्री तासु एकैकामपि विशेषसामर्थ्यार्थम् अभिनन्द्य विषादाश्रूणि हर्षाश्रुत्वेन परिवर्तितवान् । उन्नते पदे स्थितै: कीदृशम् आचरणं करणीयम् इत्येतत् स्वीयेन व्यवहारेण दर्शितवान् स: ।

स्तुत्यम् आचरणम् अद्यतनकालस्य विशेषावश्यकता । येनकेनचित् जनेन क्रियेत चेदपि तत् भवेत् अभिनन्दनार्हम् । उपदेश: यावन्तं प्रभावं जनयेत् तस्य शतगुणितं प्रभावं जनयति आचरणम् । स्तुत्याचरणकर्तॄणां परम्परा अभिवर्धतां नित्यश: ।

By Sunil