From S Sandesha(Shri Sachin)

‘भूम्याः स्वर्ग:’ इति प्रसिद्धस्य काश्मीरस्य सौन्दर्यं, भौगोलिकस्थिति:, अत्यन्तम् आह्लादकरं वातावरणं वा कस्य मन: न आकर्षति ? चतसृषु दिक्षु रक्षका: पर्वता: शीतकालस्य दीर्घता च पर्यटकानाम् आकर्षणं स्यात् किन्तु संस्कृतस्य संस्कृते: च अध्येतॄणां तु आकर्षणस्थानं काश्मीरस्था ज्ञानपरम्परा । भारतं भायां रतम् इति उच्यते ननु, तस्य किरीटत्वेन यथार्थतया शोभते काश्मीरम् । तस्य काश्मीरस्य कानिचित् वैशिष्ट्यानि अस्मिन् लेखे सङ्गृह्यन्ते ।

पौराणिकदृष्ट्या पृथिव्या: पञ्च खण्डा: कमलपुष्पवत् रचनाम् आवहन्ति । मेरुपर्वत: कमलस्य केन्द्रस्थाने, तं परित: दलीभूता: द्वीपा: । उत्तरे मध्य-एशियां बिभ्रन् उत्तरकुरुद्वीप:, पश्चिमे इराणेन सह तदुत्तरा: देशा:, ये च केतुमालाद्वीपे अन्तर्भवन्ति । पूर्वे भद्राश्वद्वीप:, येन चीनादिदेशा: गृह्यन्ते, दक्षिणे तु भारतदेश: जम्बुद्वीपत्वेन ख्यात: प्रदेशश्च । एवं रचनायुक्त: काश्मीरदेश: चतुर्णाम् अपि द्वीपानां मध्ये स्थित: सन् विचारव्यापारादिनिमित्तं मेलनस्थानम् आसीत् । गोष्ठीमात्रस्य अपेक्षया अपि परस्परविरुद्धमतानां विषये चर्चया स्पष्टतां प्राप्तुं, सिद्धान्तस्य प्रतिष्ठापनार्थं च श्रेष्ठा भूमि: आसीत् काश्मीरम् । एतत्कारणेन काश्मीरदेशीया: बहूनां शास्त्राणां विमर्शका: अभवन् । वाणिज्यस्य उत्कृष्टं केन्द्रम् अपि तत् आसीत् । काश्मीरत: देशान्तरं गता: जना: संस्कृतज्ञानस्य वाणिज्यतन्त्रस्य च प्रचारका: इव परिगण्यन्ते स्म । काश्मीरविद्वद्भि: अगणिता: ग्रन्था: लिखिता: चेदपि तेषु बहूनां लेखकानां नामानि भौगोलिकस्थानं च कथमपि न उपलभ्यते । स्मृतिबलेन तेषु बहव: ग्रन्था: लेखका: च न स्मर्यन्ते ।

कल्हणेन ११५० तमे वर्षे रचितायां राजतरङ्गिण्यां काश्मीरमहाराजानां वंशानां सन्ततीनां वा उल्लेख: कृत: अस्ति । ग्रन्थरचनार्थं तेन अधुनापि उपलभ्यं नीलमतपुराणम् इतराणि अधुना नोपलब्धानि एकादश पुस्तकानि च परिशील्य उपयुक्तानि इति श्रूयते । राजतरङ्गिण्यां नामोल्लेखमात्रं न, अपि तु वास्तवं वर्णनम् आसीत् इति करकोटासाम्राज्यस्य इतिहासपठनेन ज्ञायते । तद्वंशीयस्य दुर्लभवर्धनस्य साम्राज्यं दक्षिणपर्यन्तम् अपि आसीत् इति हुवान् त्साङ्ग् इत्यस्य चीनापर्यटकस्य लेखेषु दृश्यते ।

काश्मीरस्य साम्राज्यविस्तारकारणेन गिलगिट्, बाल्टिस्थान, तिबेट इत्यादिषु काश्मीरीभाषा एव व्यवहारपथे आसीत् । वैदिककाले उल्लिख्यमान: ‘मुजवन्त’पर्वत: काश्मीरे एव आसीत्, यत्र खलु सोम: उत्पद्यते स्म । तेन वैदिककालसम्बन्ध: काश्मीरस्य यद्यपि अस्ति तथापि सन्दर्भा: अस्फुटतया उपलभ्यन्ते । विश्वप्रसिद्धं महाभाष्यं प्रणीतवान् पतञ्जलिमुनि: अपि काश्मीरीय: आसीत् । चन्द्रादय: अन्येऽपि वैयाकरणा: काश्मीरोद्भवा: एव । पतञ्जलिमुनिना योगशास्त्रे आयुर्वेदे चापि योगदानं कृतम् अस्ति । चरकसंहिताया: सम्पादनकार्ये अपि पतञ्जलि: योगदानं कृतवान् इति कथ्यते ।

नाट्यशास्त्रम्

नाट्यशास्त्रस्य प्रणेता भरतमुनि: काश्मीरदेशीय: आसीत् । ‘रस’सिद्धान्तं प्रतिपादयता तेन ३६ तत्त्वाधारितं ३६ प्रकरणात्मकं शास्त्रम् इदं प्रणीतम् । तेन कथितेषु ‘भाण’-इत्याख्यं नाट्यभेद: एकपात्राभिनयात्मक: अधुना अपि मञ्च्यन्ते काश्मीरे । भाणपात्रस्य अपभ्रंश: ‘भण्ड पाथर्’ इति प्रस्तुतिगणस्य नाम । भरतमुने: नाट्यशास्त्रं शब्दस्तरेमात्रं न अपि तु मञ्चे साभिनयप्रदर्शनस्य सिद्धान्तान् प्रतिपादयन् प्रप्रथम: ग्रन्थ: । तेन उक्ताभि: १०८ नाट्यमुद्राभि: सर्वविधा भावाभिव्यक्ति: सम्भवति । चतुर्भ्य: वेदेभ्य: एकैकं तत्त्वं स्वीकृत्य ‘नाट्यं’ परिकल्पितम् इति कथयति भरतमुनि: । ऋग्वेदात् पाठ्यं, सामवेदात् गीतं, यजुर्वेदात् अभिनय:, अथर्ववेदात् च रस: इत्येवं चत्वारि तत्त्वानि संयोज्य नाट्यं पञ्चमवेदत्वेन परिगण्यते । भरतमतानुसारं नाट्यं नाम ‘सुखदु:खानन्दाश्चर्यादीनां मानवीयभावानाम् अभिनयेन प्रदर्शनम्’ इति ।

एतत् नाट्यशास्त्रम् अष्टौ मुख्यरसान्, ३३ उपरसान् च वर्णयति । पञ्च अध्याया: तु सङ्गीतशास्त्रसम्बद्धा: । इत: एव सङ्गीतज्ञानं प्राप्य भारते विदेशेषु च सङ्गीतज्ञा: नूतनान् विषयान् प्रतिपादितवन्त:, तत्तत्क्षेत्रे सङ्गीतं विस्तारितवन्त: च । कलेतिहासज्ञा वसुन्धरा-फिलियो-जाट् कर्णाटकराज्यस्य अध्ययनं कृत्वा उक्तवती – ‘‘काश्मीरत: दक्षिणं प्रति बहूनां शिक्षकाणां गमनागमनं निरन्तरं भवति स्म इति प्रमाणानि कथयन्ति । दक्षिणे प्रचलितानां शैव-तन्त्र-स्थापत्यागमानां मूलं तु निश्चयेन काश्मीरम् एव’’ इति ।

भौतशास्त्रम्

येन अपरेण काश्मीरीयेन ग्रन्थेन भारतीयं चिन्तनं प्रभावितं स: अस्ति ‘योगवासिष्ठ:’ इति । काल-अवकाश-पदार्थ-जीवादीनां सम्बन्ध: अस्मिन् ग्रन्थे प्रतिपादित: । २९,००० श्लोकै: उपनिबद्ध: अयं ग्रन्थ: काश्मीरे रचित: इति कथयन्ति इतिहासज्ञा: । यद्यपि अयं ग्रन्थ: तत्त्वज्ञानग्रन्थ: तथापि जीवभौतिक-मानसशास्त्रादीनां बहूनाम् आधुनिकविषयाणां मूलतत्त्वानि अस्मिन् ग्रन्थे उपलभ्यन्ते । अपि च बाह्यविश्वे ग्रहा:, तारका: इत्येतावदेव न अपि तु अन्तर्विश्वे ध्यानं, चैतन्यम् इत्येतादृशा: विषया: काश्मीरीयै: योगवासिष्ठात् अधीत्य जगते दत्ता: ।

तन्त्रशास्त्रम्

काश्मीरीया तन्त्रविद्या शैवं यथा तथा वैष्णवम् अपि मतम् अनुसरति । जीवब्रह्माण्डयो: ऐक्यं पश्यत् तन्त्रं काये दैवत्वम् अनुमनुते । एतयो: शैववैष्णवयो: वैष्णवतन्त्रं दक्षिणमात्रे जीवति । तथापि पूर्वं तु काश्मीरम् एव तन्त्रशास्त्रस्य स्थानम् इति विद्वांस: कथयन्ति स्म । शास्त्रम् इदं विष्णुधर्मोत्तपुराणे उपवर्णितम् अस्ति । कल्हणमतानुसारं सम्राज: अशोकस्य कालात् पूर्वमेव शैवसम्प्रदाय: काश्मीरे आरब्ध: । तस्य प्रणेता स्वयम् आचार्य: अभिनवगुप्त: । तेन कथितं जीवनमुक्तलक्षणं शैवसम्प्रदाये अधुनापि आदरणीयम् अस्ति ।

बौद्धमतप्रसार:

सामान्यायां प्रथमशताब्द्यां कुशानराज: कनिष्क: पञ्चशतेन भिक्षुभि: अन्यै: विद्वद्भि: च सह काश्मीरं बौद्धचिन्तनार्थं चितवान् । अस्मिन् विद्वन्मेलने भगवत: बुद्धस्य प्रवचनानां तत्त्वानां च लिपिबद्धता सम्पादिता । सर्वम् इदं बौद्धतत्त्वं ताम्रपत्रेषु उत्कीर्य स्तूपेषु योजितम् । बौद्धमतस्य सर्वास्तिवाद:, महायानं, माध्यमिकं, योगविचार: इत्येता: चतस्र: अपि शाखा: काश्मीरे एव विकसिता: । दिन्नाग:, धर्मकीर्ति:, विनीतदेव:, धर्मोत्तर: च इति महान्त: बौद्धमतधुरन्धरा: काश्मीरे एव जाता: । बौद्धमतं चीनमध्यैशियादिषु यत् प्रसृतं तदपि काश्मीरत: एव । तिबेटीयचिन्तनानुसारं तिबेटे याभ्यां तान्त्रिकं बौद्धमतं प्रचालितं तौ नरोप-पद्मसम्भवौ अपि आस्तां काश्मीरीयौ । तिबेटीयलिपि: अपि शारदा-लिपित: स्वरूपं प्राप्तवती । तत् स्वरूपं य: दत्तवान् स: थोन्मीसम्भोट: देवातीतसिंहेन सह अध्ययनाय महाराजेन दुर्लभवर्धनेन प्रेषित: आसीत् काश्मीरं प्रति ।

शिल्पकला चित्रकला च

भारते विद्यमानेषु किन्तु आक्रामकै: नाशितेषु मन्दिरेषु च काश्मीरस्थानां मन्दिराणां वैशाल्यं सौन्दर्यं च वैशिष्ट्यम् आवहति । ललितादित्येन निर्मितं मार्तण्डमन्दिरं काश्मीरस्थं महत्तममन्दिरं पाषाणनिर्मितं सत् प्रसिद्धम् । चतसृषु भित्तिषु ८४ स्थानेषु सूर्यस्य विविधानि चित्राणि मन्दिरे निर्मितानि आसन् । परिहारपुरे ललितादित्येन निर्मितं चैत्यभवनम् अनन्तरकाले जपान-अफगाणिस्थानयो: अनेकेषां बौद्धवास्तूनां मार्गदर्शकत्वेन स्थितम् ।

काश्मीरचित्रकलाया: इतिहास: अत्यन्तं प्राचीन: । गिलगिट्-पाण्डुलिपिग्रन्था: अस्या: चित्रकलाया: प्राचीनत्वं कथयन्ति । अष्टमशताब्द्यां काश्मीरे पाण्ड्रेथाने निर्मिते पाषाणशिल्पे किञ्चन वैशिष्ट्यं दृश्यते । तत्रत्य चित्रेषु मुखानि गान्धारसाम्यं भजन्ते, अन्य: चित्रभाग: भारतीयत्वं प्रदर्शयति, तिबेटीयविद्वान् रिञ्चेन् साङ्ग्पो (९५०-१०५५) तिबेटे १०८ मन्दिराणां निर्माणार्थं चित्रकारान् मार्गदर्शकान् च प्राप्तुं त्रिवारं काश्मीरं गतवान् आसीत् इति उल्लेख: तेन स्वयं कृत: अस्ति । किञ्च षोडशशताब्द्यां जात: लामा तारानाथ: तदीये History of Buddhism in India इति ग्रन्थे नवशताब्द्या: चतसृषु चित्रकलापरम्परासु काश्मीरस्य प्रामुख्यं स्पष्टतया विवृतवान् दृश्यते । काश्मीरचित्रकलाया: उदाहरणत्वेन लद्दाखे ‘अलची’ इत्यत्र विद्यमानानि पञ्च मन्दिराणि द्रष्टुं शक्यानि यत्र ‘धर्ममण्डलम्’ अन्तर्भवति । बहूनि कलापूर्णानि विशालानि च मन्दिराणि यवनाक्रमणे नष्टानि । अधुना अपि काश्मीरीया चित्रकला क्वचित् रक्षिता अस्ति अल्पेन ।

नृत्यं सङ्गीतं च

नाट्यशास्त्रे आचार्यस्य अभिनवगुप्तस्य टीका, शार्ङ्गदेवेन विरचित: सङ्गीतरत्नाकर: च मूलभूतग्रन्थत्वेन परिगणितौ प्रसिद्धौ च । काश्मीरीये सङ्गीतरत्नाकरे २६४ रागाणां विवरणं शार्ङ्गदेवेन कृतम् ।

ललितादित्यविषये कथयन् कल्हण: मन्दिरयो: पुनर्निर्माणस्य काञ्चित् कथां वदति । अश्वस्य व्यायामं कारयन् ललितादित्य: द्वे सुन्दर्यौ युवती नृत्यन्त्यौ दृष्टवान् । प्रश्ने पृष्टे स: ज्ञातवान् यत् कस्मिंश्चित् विशिष्टे स्थाने मातु: सूचनानुगुणं ते नृत्यत: इति । तस्य स्थानस्य वैशिष्ट्यं जिज्ञासु: स: तां भूमिं खातवान् । तत्र जीर्णावस्थायां विद्यमानं पिहितकवाटं रामलक्ष्मणमन्दिरं प्राप्तम् । इत्येवं नृत्यस्य इतिहास: पुरातन: अस्ति ।

साहित्यम्

साहित्यविषये काश्मीरस्य योगदानं न हि अल्पम् । शङ्कुक:, भट्टनायक:, भट्टोद्भट:, रुद्रट:, वामन: इत्येतादृशा: ‘रस’विषये प्रसिद्धा: लेखका: । ध्वन्यालोककर्ता आनन्दवर्धन:, तद्विषये लोचनव्याख्यां, तन्त्रलोक: इति तन्त्रशास्त्रीयं ग्रन्थं च कृतवान् आचार्य: अभिनवगुप्त: । गुणाढ्यस्य बृहत्कथाया: सारांशं ‘बृहत्कथामञ्जरी’ इत्याख्यं ७,५०० श्लोकात्मकं ग्रन्थं लिखितवान् क्षेमेन्द्र:, मम्मट: इत्येते महान्त: लेखका: साहित्यिका: च काश्मीरभूम्या विश्वाय दत्ता: ।

एतावन्मात्रं न, इतोऽपि बहुभि: वैशिष्ट्यै: काश्मीरं विशिष्यते । बहूनां शास्त्राणाम् उद्गमभूमि:, शारदामातु: पवित्रस्थलं, शङ्कराचार्यस्य निर्वाणभूमि: इत्येवंविधै: विशेषणै: अपि वर्णित: महिमा सामग्र्येण प्राय: न वर्णयेत् काश्मीरम् । बहुभि: आक्रान्ता, राजनीतिजनै: उपेक्षिता, अनावश्यकतया त्रिधा विभक्ता सती अपि स्वीयं वैशिष्ट्यम् आवहन्ती, गुणसौन्दर्येतिहासादिभि: जगत: चित्तं कर्षन्ती भारतवर्षस्य किरीटीभूता च काश्मीरभूमि: निश्चयेन अस्ति वन्द्या, अभिनन्द्या, संरक्षणीया च ।

[….विभिन्नस्त्रोतोभ्यः]

By Sunil